अहो अमीषां किमकारिशोभनं प्रसन्न एषां स्विदुत स्वयं हरि: |
येर्जन्म लब्धं नृषु भारताजिरे मुकुंदसेवौपयिकं स्पृहा हि न: ||
किं दुष्करैर्न : क्रतुभिस्तपोव्रतैर्दानादिभिर्वा द्युजयेन फल्गुना |
न यत्र नारायणपादपंकजस्मृति : प्रमुष्टातिशयेंद्रियोत्सवात ||
कल्पयुषां स्थानजयातपुनर्भवात क्षणायुषां भारतभुजयो वरम |
क्षणेन मर्त्येन कृतं मनस्विन: सन्यस्य संयांत्यभयं पदम् हरे:||